(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

Mahabharata - Drona Parva


॥ श्रीः ॥
7.154. अध्यायः 154
Mahabharata - Drona Parva - Chapter Topics
युधिष्ठिरेण दुर्योधनपराजयः॥ 1 ॥


Mahabharata - Drona Parva - Chapter Text

सञ्जय उवाच। 7-154-0x(4674)(51759)
तदुदीर्णं रथाश्वौघं बलं तव जनाधिप।
पाण्डुसेनामतिक्रम्य योधयामास सर्वतः॥ 7-154-1(51760)
पाञ्चालाः कुरवश्चैव योधयन्तः परस्परम्।
यमराष्ट्राय महते परलोकाय दीक्षिताः॥ 7-154-2(51761)
शूराः शूरैः समागम्य शरतोमरशक्तिभिः।
विव्यधुः समरेऽन्योन्यं निन्युश्चैव यमक्षयम्॥ 7-154-3(51762)
रथिनां रथिभिः सार्धं रुधिरस्रावदारुणम्।
प्रावर्तत महद्युद्धं निघ्नतामितरेतरम्॥ 7-154-4(51763)
वारणाश्च महाराज समासाद्य परस्परम्।
विषाणैर्दारयामासुः सुसङ्क्रुद्धा मदोत्कटाः॥ 7-154-5(51764)
हयारोहान्हयारोहाः प्रासशक्तिपरश्वथैः।
बिभिदुस्तुमुले युद्धे प्रार्थयन्तो महद्यशः॥ 7-154-6(51765)
पत्तयश्च महाबाहो शतशः शस्त्रपाणयः।
अन्योन्यमार्दयन्राजन्नित्यं यत्ताः पराक्रमे॥ 7-154-7(51766)
गोत्राणां नामधेयानां कुलानां चैव मारिष।
श्रवणाद्धि विजानीमः पाञ्चालान्कुरुभिः सह॥ 7-154-8(51767)
तेऽन्योन्यं समरे योधाः शरशक्तिपरश्वथैः।
प्रैषयन्परलोकाय विचरन्तो ह्यभीतवत्॥ 7-154-9(51768)
शरैर्दश दिशो राजंस्तेषां मुक्तैः सहस्रशः।
न भ्राजन्ते यथा पूर्वं भास्करस्य च नाशनात्॥ 7-154-10(51769)
तथा प्रयुध्यमानेषु पाण्डवेयेषु भारत।
दुर्योधनो महाराज व्यवागाहत तद्बलम्॥ 7-154-11(51770)
सैन्धवस्य वधेनैव भृशं दुःखसमन्वितः।
मर्तव्यमिति संचिन्त्य प्राविशच्च द्विषद्बलम्॥ 7-154-12(51771)
नादयन्रथघोषेण कम्पयन्निव मेदिनीम्।
अभ्यवर्तत पुत्रस्ते पाण्डवानामनीकिनीम्॥ 7-154-13(51772)
स सन्निपातस्तुमुलस्तस्य तेषां च भारत।
अभवत्सर्वसैन्यानामभावकरमो महान्॥ 7-154-14(51773)
`धृतराष्ट्र उवाच। 7-154-15x(4675)
तथा हतेषु सैन्येषु तथा कृच्छ्रगतः स्वयम्।
कच्चिद्दुर्योधनः सूत नाकार्षीत्पृष्ठतो रणम्॥ 7-154-15(51774)
एकस्य च बहुनां च सन्निपातो महानभूत्।
विशेषतो हि नृपतेर्विषमं प्रतिभाति मे॥ 7-154-16(51775)
सोऽत्यन्तसुखसंवृद्धो रक्ष्यो लोकस्य चेश्वरः।
एको बहून्समासाद्य कच्चिन्नासीत्पराङ्मुखः॥ 7-154-17(51776)
द्रोणः कर्णः कृपश्चैव कृतवर्मा च सात्वतः।
नावारयन्कथं युद्धे राजानं राज्यकाङ्क्षिणः॥ 7-154-18(51777)
सर्वोपायैर्हि युद्धेषु रक्षितव्यो महीपतिः।
एषा नीतिः परा युद्धे दृष्टा तत्र मनीषिभिः॥ 7-154-19(51778)
प्रविष्टे वै मम सुते परेषां वै महद्बलम्।
मामका रथिनां श्रेष्ठाः किमकुर्वत स़ञ्जय॥ 7-154-20(51779)
सञ्जय उवाच। 7-154-21x(4676)
राजन्सङ्ग्राममाश्चर्यं पुत्रस्य तव भारत।
एकस्य च बहूनां च शृणु मे ब्रुवतो ध्रुवम्॥ 7-154-21(51780)
द्रोणेन वार्यमाणोऽसौ कर्णेन च कृपेण च।
प्राविशत्पाण्डवीं सेनां मकरः सागरं यथा॥ 7-154-22(51781)
किरन्निषुसहस्राणि तत्रतत्र तथातथा।
पाञ्चालान्पाण्डवांश्चैव विव्याध निशितैः शरैः॥ 7-154-23(51782)
यथोदयगतः सूर्यो रश्मिभिर्नाशयेत्तमः।
तथा पुत्रस्तव बलं नाशयत्तन्महाबलः'॥ 7-154-24(51783)
यथा मध्यन्दिने सूर्यं प्रतपन्तं गभस्तिभिः।
तथा तव सुतं मध्ये प्रतपन्तं शरार्चिभिः।
न शेकुर्भारतं युद्धे पाण्डवाः समुदीक्षितुम्॥ 7-154-25(51784)
पलायनकृतोत्साहा निरुत्साहा द्विषज्जये।
पर्यधावन्त पाञ्चाला वध्यमाना महात्मना॥ 7-154-26(51785)
रुक्मपुङ्खैः प्रसन्नाग्रैस्तव पुत्रेण धन्विना।
अर्द्यमानाः शरैस्तूर्णं न्यपतन्पाण्डुसैनिकाः॥ 7-154-27(51786)
`व्यद्रवंश्च भयाद्योधा दृष्ट्वा तं परमाहवे।
व्यात्ताननमिव प्राप्तमन्तकं प्राणहारिणम्'॥ 7-154-28(51787)
न तादृशं रमे कर्म कृतवन्तस्तु तावकाः।
यादृशं कृतवान्राजा पुत्रस्तव विशाम्पते॥ 7-154-29(51788)
पुत्रेण तव सा सेना पाण्डवी मथिता रणे।
नलिनी द्विरदेनेव समन्तात्फुल्लपङ्कजा॥ 7-154-30(51789)
क्षीणतोयानिलार्काभ्यां हतत्विडिव पद्मिनी।
बभूव पाण्डवी सेना तव पुत्रस्य तेजसा॥ 7-154-31(51790)
पाण्डुसेनां हतां दृष्ट्वा तव पुत्रेण भारत।
भीमसेनपुरोगास्तु पाञ्चालाः समुपाद्रवन्॥ 7-154-32(51791)
स भीमसेनं दशभिर्माद्रीपुत्रौ त्रिभिस्त्रिभिः।
विराटद्रुपदौ षड्भिः शतेन च शिखण्डिनम्॥ 7-154-33(51792)
धृष्टद्युम्नं च सप्तत्या धर्मपुत्रं च सप्तभिः।
केकयांश्चैव चेदींश्च बहुभिर्निशितैः शरैः॥ 7-154-34(51793)
सात्वतं पञ्चभिर्विद्धा द्रौपदेयांस्त्रिभिस्त्रिभिः।
घटोत्कचं च समरे विद्ध्वा सिंह इवानदत्॥ 7-154-35(51794)
शतशश्चापरान्योधान्सद्विपांश्च महारणे।
शरैरवचकर्तोग्रैः क्रुद्धोऽन्तक इव प्रजाः॥ 7-154-36(51795)
सा तेन पाण्डवी सेना वध्यमाना शिलीमुखैः।
तव पुत्रेण सङ्ग्रामे विदुद्राव नराधिप॥ 7-154-37(51796)
तं तपन्तमिवादित्यं कुरुराजं महाहवे।
नाशकन्वीक्षितुं राजन्पाण्डुपुत्रस्य सैनिकाः॥ 7-154-38(51797)
ततो युधिष्ठिरो राजा कुपितो राजसत्तम।
अभ्यधावत्कुरुपतिं तव पुत्रं जिघांसया॥ 7-154-39(51798)
तावुभौ युधि कौरव्यौ समीयतुररिन्दमौ।
स्वार्थहेतोः पराक्रान्तौ दुर्योधनयुधिष्ठिरौ॥ 7-154-40(51799)
ततो दुर्योधनः क्रुद्धः शरैः सन्नतपर्वभिः।
विव्याध दशभिस्तूर्णं ध्वजं चिच्छेद चेषुणा॥ 7-154-41(51800)
इन्द्रसेनं त्रिभिश्चैव ललाटे जघ्निवान्नृप।
सारथिं दयितं राज्ञः पाण्डवस्य महात्मनः॥ 7-154-42(51801)
धनुश्च पुनरन्येन चकर्तास्य महारथः।
चतुर्भिश्चतुरश्चैव बाणैर्विव्याध वाजिनाः॥ 7-154-43(51802)
ततो युधिष्ठिरः क्रुद्धो निमेषादिव कार्मुकम्।
अन्यदादाय वेगेन कौरवं प्रत्यवारयत्॥ 7-154-44(51803)
तस्य तान्निघ्नतः शत्रून्रुक्मपृष्ठं महद्धनुः।
भल्लाभ्यां पण्डवो ज्येष्ठस्त्रिधा चिच्छेद मारिष॥ 7-154-45(51804)
विव्याध चैनं दशभिः सम्यगस्तैः शितैः शरैः।
मर्म भित्त्वा तु ते सर्वे संलग्नाः क्षितिमाविशन्॥ 7-154-46(51805)
ततः परिवृता योधाः परिवव्रुर्युधिष्ठिरम्।
वृत्रेण सह युध्यन्तं यद्वद्देवाः शतक्रतुम्॥ 7-154-47(51806)
ततो युधिष्ठिरो राजा तव पुत्रस्य मारिष।
शरं च सूर्यरश्म्याभमत्युग्रमनिवारणम्।
हा हतोऽसीति राजानमुक्त्वाऽमुञ्चद्युधिष्ठिरः॥ 7-154-48(51807)
स तेनाकर्णमुक्तेन विद्धो बाणेन कौरवः।
निषसाद रथोपस्थे भृशं सम्मूढचेतनः॥ 7-154-49(51808)
ततः पाञ्चाल्यसेनानां भृशमासीद्रवो महान्।
हतो राजेति राजेन्द्र मुदितानां समन्ततः॥ 7-154-50(51809)
बाणशब्दरवश्चोग्रः शुश्रुवे तत्र मारिष।
अथ द्रोणो द्रुतं तत्र प्रत्यदृश्यत संयुगे॥ 7-154-51(51810)
हृष्टो दुर्योधनश्चापि दृढमादाय कार्मुकम्।
तिष्ठतिष्ठेति राजानं ब्रुवन्पाण्डवमभ्ययात्॥ 7-154-52(51811)
प्रत्युद्ययुस्तं त्वरिताः पाञ्चाला जयगृद्धिनः।
तान्द्रोणः प्रतिजग्राह परीप्सन्कुरुसत्तमम्।
चण्डवातः समुद्वूतो मेघानम्बुमुचो यथा॥ 7-154-53(51812)
ततो राजन्महानासीत्सङ्ग्रामो भूरिवर्धनः।
तावकानां परेषां च समेतानां युयुत्सया॥ ॥ 7-154-54(51813)

इति श्रीमन्महाभारते द्रोणपर्वणि घटोत्कचवधपर्वणि चतुर्दशरात्रियुद्धे चतुःपञ्चाशदधिकशततमोऽध्यायः॥ 154 ॥

Mahabharata - Drona Parva - Chapter Footnotes

5-154-8 गोत्रं पित्रादि नाम शैनेय सात्यके इत्यादि। कुलं पाण्ड्यपाञ्चाल्येत्यादि॥ 5-154-46 सम्यगस्तैः दृढं प्रक्षिप्तैः॥ 5-154-51 बाणशब्दरवो बाणशब्दसहितो रवः प्राणिशब्दः॥ 5-154-54 भूरिवर्धनो बहुच्छेदनः॥ 5-154-154 चतुःपञ्चाशदधिकशततमोऽध्यायः॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.